|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.176. अध्यायः 176
Mahabharata - Adi Parva - Chapter Topics
भिक्षाटनार्थं गतानां युधिष्ठिरादीनां गृहं प्रत्यागमनम्॥ 1 ॥
भीमो बकं प्रति प्रेष्यत इति ज्ञातवतो युधिष्ठिरस्य संतापः॥ 2 ॥
भीमसेनप्रभावकथनेन कुन्त्या कृतं युधिष्ठिराश्वासनम्॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-176-0x(1017)(7956)
करिष्य इति भीमेन प्रतिज्ञातेऽथ भारत।
आजग्मुस्ते ततः सर्वे भैक्षमादाय पाण्डवाः॥ 1-176-1(7957)
`भीमसेनं ततो दृष्ट्वा आपूर्णवदनं तथा।
बुबोध धर्मराजस्तु हृषितं भीममच्युतम्॥ 1-176-2(7958)
तोषस्य कारणं यत्तु मनसाऽचिन्तयद्गुरुः।
स समीक्ष्य तदा राजन्योद्धुकामं युधिष्ठिरः॥' 1-176-3(7959)
आकारेणैव तं ज्ञात्वा पाण्डुपुत्रो युधिष्ठिरः।
रहः समुपविश्यैकस्ततः पप्रच्छ मातरम्॥ 1-176-4(7960)
किं चिकीर्षत्ययं कर्म भीमो भमपराक्रमः।
भवत्यनुमते कच्चित्स्वयं वा कर्तुमिच्छति॥ 1-176-5(7961)
कुन्त्युवाच। 1-176-6x(1018)
ममैव वचनादेष करिष्यति परन्तपः।
ब्राह्मणार्थे महत्कृत्यं मोक्षाय नगरस्य च॥ 1-176-6(7962)
`बकाय कल्पितं पुत्र महान्तं बलिमुत्तमम्।
भीमो भुनक्तु सुस्पष्टमप्येकाहं तपःसुतः॥' 1-176-7(7963)
युधिष्ठिर उवाच। 1-176-8x(1019)
किमिदं साहसं तीक्ष्णं भवत्या दुष्करं कृतम्।
परित्यागं हि पुत्रस्य न प्रशंसन्ति साधवः॥ 1-176-8(7964)
कथं परसुतस्यार्थे स्वसुतं त्यक्तुमिच्छसि।
लोकवेदविरुद्धं हि पुत्रत्यागात्कृतं त्वया॥ 1-176-9(7965)
यस्य बाहू समाश्रित्य सुखं सर्वे शयामहे।
राज्यं चापहृतं क्षुद्रैराजिहीर्षामहे पुनः॥ 1-176-10(7966)
यस्य दुर्योधनो वीर्यं चिन्तयन्नमितौजसः।
न शेते रजनीः सर्वा दुःखाच्छकुनिना सह॥ 1-176-11(7967)
यस्य वीरस्य वीर्येण मुक्ता जतुगृहाद्वयम्।
अन्येभ्यश्चैव पापेभ्यो निहतश्च पुरोचनः॥ 1-176-12(7968)
यस्य वीर्यं समाश्रित्य वसुपूर्णां वसुन्धराम्।
इमां मन्यामहे प्राप्तां निहत्य धृतराष्ट्रजान्॥ 1-176-13(7969)
तस्य व्यवसितस्त्यागो बुद्धिमास्थाय कां त्वया।
कच्चिन्नु दुःखैर्बुद्धिस्ते विलुप्ता गतचेतसः॥ 1-176-14(7970)
कुन्त्युवाच। 1-176-15x(1020)
युधिष्ठिर न संतापस्त्वया कार्यो वृकोदरे।
न चायं बुद्धिदौर्बल्याद्व्यवसायः कृतो मया॥ 1-176-15(7971)
`न च शोकेन बुद्धिः सा विलुप्ता गतचेकसः।'
इह विप्रस्य भवने वयं पुत्र सुखोषिताः।
अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः॥ 1-176-16(7972)
तस्य प्रतिक्रिया पार्थ मयेयं प्रसमीक्षिता।
एतावानेव पुरुषः कृतं यस्मिन्न नश्यति॥ 1-176-17(7973)
यावच्च कुर्यादन्योऽस्य कुर्याद्बहुगुमं ततः।
`ब्राह्मणार्थे महान्धर्मो जानामीत्थं वृकोदरे॥' 1-176-18(7974)
दृष्ट्वा भीमस्य विक्रान्तं तदा जतुगृहे महत्।
हिडिम्बस्य वधाच्चैवं विश्वासो मे वृकोदरे॥ 1-176-19(7975)
बाह्वोर्बलं हि भीमस्य नागायुतसमं महत्।
येन यूयं गजप्रख्या निर्व्यूढा वारणावतात्॥ 1-176-20(7976)
वृकोदरेण सदृशो बलेनान्यो न विद्यते।
यो व्यतीयाद्युधि श्रेष्ठमपि वज्रधरं स्वयम्॥ 1-176-21(7977)
जातमात्रः पुरा चैव ममाङ्कात्पतितो गिरौ।
शरीरगौरवादस्य शिला गात्रैर्विचूर्णिता॥ 1-176-22(7978)
तदहं प्रज्ञया ज्ञात्वा बलं भीमस्य पाण्डव।
प्रतिकार्ये च विप्रस्य ततः कृतवती मतिम्॥ 1-176-23(7979)
नेदं लोभान्न चाज्ञानान्न च मोहाद्विनिश्चितम्।
बुद्धिपूर्वं तु धर्मस्य व्यवसायः कृतो मया॥ 1-176-24(7980)
अर्थौ द्वावपि निष्पन्नौ युधिष्ठिर भविष्यतः।
प्रतीकारश्च वासस्य धर्मश्च चरितो महान्॥ 1-176-25(7981)
यो ब्राह्मणस्य साहाय्यं कुर्यादर्थेषु कर्हिचित्।
क्षत्रियः स शुभाँल्लोकानाप्नुयादिति मे मतिः॥ 1-176-26(7982)
क्षत्रियस्यैव कुर्वाणः क्षत्रियो वधमोक्षणम्।
विपुलां कीर्तिमाप्नोति लोकेऽस्मिंश्च परत्र च॥ 1-176-27(7983)
वैश्यस्यार्थे च साहाय्यं कुर्वाणः क्षत्रियो भुवि।
स सर्वेष्वपि लोकेषु प्रजा रञ्जयते ध्रुवम्॥ 1-176-28(7984)
शूद्रं तु मोचयेद्राजा शरणार्थिनमागतम्।
प्राप्नोतीह कुले जन्म सद्द्रव्ये राजपूजिते॥ 1-176-29(7985)
एवं मां भगवान्व्यासः पुरा पौरवनन्दन।
प्रोवाचासुकरप्रज्ञस्तस्मादेवं चिकीर्षितम्॥ ॥ 1-176-30(7986)
इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि षट्सप्तत्यधिकशततमोऽध्यायः॥ 176 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-176-6 मोक्षाय बकभयादिति शेषः॥ 1-176-25 प्रतीकारः प्रत्युपकारः॥ षट्सप्तत्यधिकशततमोऽध्यायः॥ 176 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|